श्रीभगवानुवाच
इदं(न्) तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 1 ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं(न्) धर्म्यं सुसुखं(ङ्) कर्तुमव्ययम् ॥ 2 ॥
अश्रद्धधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां(न्) निवर्तंते मृत्युसंसारवर्त्मनि ॥ 3 ॥
मया ततमिदं सर्वं(ञ्) जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं(न्) तेष्ववस्थितः ॥ 4 ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 5 ॥
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 6 ॥
सर्वभूतानि कौंतेय प्रकृतिं यांति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 7 ॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं(ङ्) कृत्स्नम(म्+अ)वशं प्रकृतेर्वशात् ॥ 8 ॥
न च मां(न्) तानि कर्माणि निबध्नंति धनंजय ।
उदासीनवदासीनम(म्+अ)सक्तं(न्) तेषु कर्मसु ॥ 9 ॥
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौंतेय जगद्विपरिवर्तते ॥ 10 ॥
अवजानंति मां मूढा मानुषीं(न्) तनुमाश्रितम् ।
परं भावमजानंतो मम भूतमहेश्वरम् ॥ 11 ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं(ञ्) चैव प्रकृतिं मोहिनीं श्रिताः ॥ 12 ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजंत्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ 13 ॥
सततं कीर्तयंतो मां यतंतश्च दृढव्रताः ।
नमस्यंतश्च मां भक्त्या नित्ययुक्ता उपासते ॥ 14 ॥
ज्ञानयज्ञेन चाप्यन्ये यजंतो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ 15 ॥
अहं(ङ्) क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मंत्रोऽहमहमेवाज्यम(म्+अ)हमग्निरहं हुतम् ॥ 16 ॥
पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ 17 ॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं(न्) निधानं बीजमव्ययम् ॥ 18 ॥
तपाम्यहमहं वर्षं(न्) निगृह्णाम्युत्सृजामि च ।
अमृतं(ञ्) चैव मृत्युश्च सदसच्चाहमर्जुन ॥ 19 ॥
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयंते।
ते पुण्यमासाद्य सुरेंद्रलोकम(म्+अ)श्नंति दिव्यान् दिवि देवभोगान् ॥ 20 ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशंति ।
एवं(न्) त्रयीधर्ममनुप्रपन्ना गतागतं(ङ्) कामकामा लभंते ॥ 21 ॥
अनन्याश्चिंतयंतो मां ये जनाः पर्युपासते ।
तेषां(न्) नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 22 ॥
येऽप्यन्यदेवता भक्ता यजंते श्रद्धयान्विताः ।
तेऽपि मामेव कौंतेय यजंत्यविधिपूर्वकम् ॥ 23 ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानंति तत्त्वेनातश्च्यवंति ते ॥ 24 ॥
यांति देवव्रता देवान् पितॄन्यांति पितृव्रताः ।
भूतानि यांति भूतेज्या यांति मद्याजिनोऽपि माम् ॥ 25॥
पत्रं पुष्पं फलं(न्) तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतम(म्+अ)श्नामि प्रयतात्मनः ॥ 26 ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौंतेय तत्कुरुष्व मदर्पणम् ॥ 27 ॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबंधनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ 28 ॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजंति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 29 ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मंतव्यः सम्यग्व्यवसितो हि सः ॥ 30 ॥
क्षिप्रं भवति धर्मात्मा शश्वच्छांतिं(न्) निगच्छति ।
कौंतेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥ 31 ॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽ(द्राः+तेऽ)पि यांति परां(ङ्) गतिम् ॥ 32 ॥
किं पुनर्ब्राह्मणाः पुण्याः भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमि(म्+इ)मं प्राप्य भजस्व माम् ॥ 33 ॥
मन्मना भव मद्भक्तो मद्याजी मां(न्) नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमा(म्+आ)त्मानं मत्परायणः ॥ 34 ॥
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोऽध्यायः