Shloka 1-3

श्रीभगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1 ॥

एवं परंपराप्राप्तमि(म्+इ)मं राजर्षयो विदुः ।

स कालेनेह महता योगो नष्टः परंतप ॥ 2 ॥

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 3 ॥

Shloka 4 - 8

अर्जुन उवाच

अपरं भवतो जन्म परं(ञ्) जन्म विवस्वतः ।

कथमेतद्विजानीयां(न्) त्वमादौ प्रोक्तवानिति ॥ 4 ॥

श्रीभगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ 5 ॥

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।

प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ 6 ॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ 7 ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ 8 ॥

Shloka 9 - 13

जन्मकर्म च मे दिव्यमे(म्+ए)वं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ 9 ॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ 10 ॥

ये यथा मां प्रपद्यंते तांस्तथैव भजाम्यहम् ।

मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ॥ 11 ॥

कांक्षंतः कर्मणां सिद्धिं यजंत इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 12 ॥

चातुर्वर्ण्यं मया सृष्टं(ङ्) गुणकर्मविभागशः ।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ 13 ॥

Shloka 14 - 18

न मां(ङ्) कर्माणि लिंपंति न मे कर्मफले स्पृहा ।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ 14 ॥

एवं ज्ञात्वा कृतं(ङ्) कर्म पूर्वैरपि मुमुक्षुभिः ।

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं(ङ्) कृतम् ॥ 15 ॥

किं(ङ्) कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 16 ॥

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं(ञ्) च विकर्मणः ।

अकर्मणश्च बोद्धव्यं(ङ्) गहना कर्मणो गतिः ॥ 17 ॥

कर्मण्यकर्म यः पश्येद(त्+अ)कर्मणि च कर्म यः ।

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 18 ॥

Shloka 19 - 23

यस्य सर्वे समारंभाः कामसंकल्पवर्जिताः ।

ज्ञानाग्निदग्धकर्माणं(न्) तमाहुः पंडितं बुधाः ॥ 19 ॥

त्यक्त्वा कर्मफलासंगं(न्) नित्यतृप्तो निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥ 20 ॥

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं(ङ्) केवलं(ङ्) कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 21॥

यदृच्छालाभसंतुष्टो द्वंदातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 22 ॥

गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः ।

यज्ञा याचरतः कर्म समग्रं प्रविलीयते ॥ 23 ॥

Shloka 24 - 28

ब्रह्मार्पणं ब्रह्महविर्ब्र(विः+ब्र)ह्माग्नौ ब्रह्मणा हुतम् ।

ब्रह्मैव तेन गंतव्यं ब्रह्मकर्मसमाधिना ॥ 24 ॥

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 25 ॥

श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति ।

शब्दादीन्विषयानन्य इंद्रियाग्निषु जुह्वति ॥ 26 ॥

सर्वाणींद्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 27॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्याय ज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ 28 ॥

Shloka 29 - 33

अपाने जुह्वति प्राणं प्राणेऽपानं(न्) तथापरे ।

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ 29 ॥

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ 30 ॥

यज्ञशिष्टामृतभुजो यांति ब्रह्म सनातनम् ।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ 31 ॥

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।

कर्मजान्विद्धि तान् सर्वाने(न्+ए)वं ज्ञात्वा विमोक्ष्यसे ॥ 32 ॥

श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञा(त्+ज्ञा)नयज्ञः परंतप ।

सर्वं(ङ्) कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 33 ॥

Shloka 34 - 38

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्षंति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ 34 ॥

यज्ज्ञात्त्वा न पुनर्मोहमे(म्+ए)वं यास्यसि पांडव ।

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 35 ॥

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ 36 ॥

यथैधांसि समिद्धोग्निर्भ(ग्निः+भ)स्म सात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 37॥

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विंदति ॥ 38 ॥

Shloka 39 - 42

श्रद्धावांल्लभते ज्ञानं(न्) तत्परः संयतेंद्रियः ।

ज्ञानं लब्ध्वा परां शांतिम(म्+अ)चिरेणाधिगच्छति ॥ 39 ॥

अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ 40 ॥

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।

आत्मवंतं(न्) न कर्माणि निबध्नंति धनंजय ॥ 41 ॥

तस्मादज्ञानसंभूतं हृत्स्थं(म्) ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमा(म्+आ)तिष्ठोत्तिष्ठ भारत ॥ 42 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगोनाम चतुर्थोऽध्यायः

Full chapter

Solo chanting