Gita Dhyana Shloka

Shloka 1 - 5

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

मामकाः पांडवाश्चैव किमकुर्वत संजय ॥ 1 ॥

संजय उवाच

दृष्ट्वा तु पांडवानीकं व्यूढं(न्) दुर्योधनस्तदा ।

आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ 2 ॥

पश्यैतां पांडुपुत्राणामा(म्+आ)चार्य महतीं(ञ्) चमूम् ।

व्यूढां(न्) द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥

अत्र शूराः महेष्वासा भीमार्जुनसमा युधि ।

युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4 ॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।

पुरुजित् कुंतिभोजश्च शैब्यश्च नरपुंगवः ॥ 5 ॥

Shloka 6 - 10

युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6 ॥

अस्माकं(न्) तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं(न्) तान् ब्रवीमि ते ॥ 7 ॥

भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥

अन्ये च बहवः शूरा(ः) मदर्थे त्यक्तजीविताः ।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥

अपर्याप्तं(न्) तदस्माकं बलं भीष्माभिरक्षितम् ।

पर्याप्तं(न्) त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥

Shloka 11 - 15

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।

भीष्ममेवाभिरक्षंतु भवंतः सर्व एव हि ॥ 11 ॥

तस्य संजनयन् हर्षं(ङ्) कुरुवृद्धः पितामहः ।

सिंहनादं विनद्योच्चैः शंखं(न्) दध्मौ प्रतापवान् ॥ 12 ॥

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यंत स शब्दस्तुमुलोऽभवत् ॥ 13 ॥

ततः श्वेतैर्हयैर्युक्ते महति स्यंदने स्थितौ ।

माधवः पांडवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥ 14 ॥

पांचजन्यं हृषीकेशो देवदत्तं(न्) धनंजयः ।

पौंड्रं(न्) दध्मौ महाशंखं भीमकर्मा वृकोदरः ॥ 15 ॥

Shloka 16 - 20

अनंतविजयं राजा कुंतीपुत्रो युधिष्ठिरः ।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥

काश्यश्च परमेष्वासः शिखंडी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 17 ॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

सौभद्रश्च महाबाहुः शंखान् दध्मुः पृथक् पृथक् ॥ 18 ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।

नभश्च पृथिवीं(ञ्) चैव तुमुलो व्यनुनादयन् ॥ 19 ॥

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।

प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडवः ॥ 20 ॥

Shloka 21 - 25

हृषीकेशं(न्) तदा वाक्यमि(म्+इ)दमाह महीपते ।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 21 ॥

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।

कैर्मया सह योद्धव्यम(म्+अ)स्मिन् रणसमुद्यमे ॥ 22 ॥

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।

धार्तराष्ट्रस्य दुर्बुद्धेर्यु(द्धेः+यु)द्धे प्रियचिकीर्षवः ॥ 23॥

संजय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 24 ॥

भीष्मद्रोण प्रमुखतः सर्वेषां(ञ्) च महीक्षिताम् ।

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ 25 ॥

Shloka 26 - 30

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।

आचार्यान्मातुलान्‌भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥ 26॥

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान् ॥ 27 ॥

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं(ङ्) कृष्ण युयुत्सुं समुपस्थितम् ॥ 28 ॥

सीदंति मम गात्राणि मुखं(ञ्) च परिशुष्यति ।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 29 ॥

गांडीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 30 ॥

Shloka 31 - 35

निमित्तानि च पश्यामि विपरीतानि केशव ।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 31 ॥

न कांक्षे विजयं(ङ्) कृष्ण न च राज्यं सुखानि च ।

किं(न्) नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥ 32 ॥

येषामर्थे कांक्षितं(न्) नो राज्यं भोगाः सुखानि च ।

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 33 ॥

आचार्याः पितरः पुत्रास्त(त्राः+त)थैव च पितामहाः ।

मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥ 34 ॥

एतान्न हंतुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं(न्) नु महीकृते ॥ 35 ॥

Shloka 36 - 40

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ 36 ॥

तस्मान्नार्हा वयं हंतुं(न्) धार्तराष्ट्रान् स्वबांधवान् ।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 37 ॥

यद्यप्येते न पश्यंति लोभोपहतचेतसः ।

कुलक्षयकृतं(न्) दोषं मित्रद्रोहे च पातकम् ॥ 38 ॥

कथं(न्) न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।

कुलक्षयकृतं(न्) दोषं प्रपश्यद्भिर्जनार्दन ॥ 39 ॥

कुलक्षये प्रणश्यंति कुलधर्माः सनातनाः ।

धर्मे नष्टे कुलं कृत्स्नम(म्+अ)धर्मोऽभिभवत्युत ॥ 40 ॥

Shloka 41 - 45

अधर्माभिभवात् कृष्ण प्रदुष्यंति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ 41 ॥

संकरो नरकायैव कुलघ्नानां(ङ्) कुलस्य च ।

पतंति पितरो ह्येषां लुप्तपिंडोदकक्रियाः ॥ 42 ॥

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।

उत्साद्यंते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 43 ॥

उत्सन्नकुलधर्माणां मनुष्याणां(ञ्) जनार्दन ।

नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ 44 ॥

अहो बत महत्पापं(ङ्) कर्तुं व्यवसिता वयम् ।

यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यताः ॥ 45 ॥

Shloka 46 - 47

यदि मामप्रतीकारम(म्+अ)शस्त्रं शस्त्रपाणयः ।

धार्तराष्ट्रा रणे हन्युस्त(न्युः+त)न्मे क्षेमतरं भवेत् ॥ 46 ॥

संजय उवाच

एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।

विसृज्य सशरं(ञ्) चापं शोकसंविग्नमानसः ॥ 47 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोऽध्यायः ||

Full chapter

Solo chanting